मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,५३५ लेखाः सन्ति।
वैशेषिकदर्शनं भारतीयदर्शनेषु अन्यतमम्। सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम्। दर्शनम् एतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः। अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान्। एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते। महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितान्नकणान् लक्षीकृत्य स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः। अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्श्नमिति। यतः अस्मिन् दर्शने विशेषः पदार्थत्वेन स्वीक्रियते। (अधिकवाचनाय »)

भगिनी निवेदिता इति स्वामिविवेकानन्देन प्रदत्तं नाम। तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत्। भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते। मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री। एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्छत्। मेडम कामा-द्वारा निर्मितस्य "वन्दे मातरम्"-ध्वजस्य अनुसरणं कृत्वा अनया अपि भारतीयराष्ट्रध्वजस्य निर्माणे स्वयोगदानं कृतम्। स्वामिविवेकानन्दस्य जीवनीलेखने अपि एतस्याः महत्योगदानं वर्तते। (अधिकवाचनाय »)
केचन कथाग्रन्था:, तेषां कर्तार: च -
- उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना
22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।
* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्
21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।
* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्
20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
सर्वेषां प्राणिनां मरणं स्वभावसिद्धम्। तत् परिहर्तुं केनापि न शक्यते। जातस्य मरणं निश्चितम् एव। किन्तु जीवनं न निश्चितम्। तत् आकस्मिकं, न तु स्वभावसिद्धम्। अद्यैव जीवनं समाप्तं स्यात्, अथवा श्वः। जीवितस्य पुरुषस्य मरणं भवत्येव। किन्तु मृतस्य पुनः जीवितं भविष्यति इत्यत्र न निश्चयः। अतः क्षणकालमपि जीवः यदि देहे तिष्ठति तर्हि तदेव प्राणिनां महालाभः। किञ्च, मरणेऽपि शोकः न कार्यः। यतः मरणं प्राणिनां स्वाभाविकम्। यावज्जीवं सन्तोषेण जीवेत्। यतः दुर्लभं जीवनम् अस्माभिः प्राप्तम् अस्ति। |