सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

सञ्चिका:Shri Madhvacharya.jpg
माध्वसिद्धान्तस्य प्रवर्तकः मध्वाचार्यः

द्वैतवेदान्तःत्रिषु वेदान्तेषु माध्वसिद्धान्तः अन्यतमः अस्ति। द्वैतपदस्य भेदः इत्यर्थः। अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति। अस्य सिद्धान्तस्य प्रतिपादकः मध्वाचार्यःमध्वाचार्यस्य अपरं नाम "पूर्णप्रज्ञः" इति। एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन् दर्शने परमात्मा, जीवात्मा, जडस्य च परस्परं भेदः निरूपितः अस्ति। स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते। तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम्। अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति। तत्त्वप्रतिपादकः श्लोकः,

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥ (अधिकवाचनाय »)



आधुनिकलेखः

हेलेन् केलर्

हेलेन एड्मन्स् केलर अन्धा, बधिरा, मूका चासीत्। परन्तु सा अन्येभ्यः मूकबधिरान्धेभ्यः, सामान्यनागरिकेभ्यश्च प्रेरणायाः स्रोतः आसीत्। यतो हि ज्ञानेन्द्रियविहीना हेलेन केलर स्वप्रयत्नैः, अविरतकार्यैः च विश्वस्मिन् अनेकानि कठिनतमानि कार्याणि अकरोत्। अमेरिका-देशीया हेलेन केलर लेखिका, राजनीतिज्ञा, प्राध्यापिका चासीत्। सा प्रप्रथमा मूका, बधिरा च व्यक्तिः आसीत्, यया स्नातकपदवी प्राप्ता। तुस्कुम्बिया-नगरस्य पश्चिम-भागे यत्र हेलेन इत्यस्याः जन्म अभवत्, तत्र सद्यः एकः सङ्ग्रहालयः (museum) वर्तते। हेलेन केलर इत्यस्याः जन्मदिने जून-मासस्य सप्तविंशतितमे (२७) दिनाङ्के अमेरिका-देशस्य पेन्सिलवेनिया-राज्ये हेलेन केलर-दिनस्य आचरणं भवति। हेलेन केलर-दिनस्य आधिकारिकघोषणा जिम्मि कार्टर्-आख्येन राष्ट्रपतिना १९८० तमे वर्षे कृता, तत् वर्षं हेलेन केलर इत्यस्याः जन्मशताब्दीवर्षम् आसीत्। (अधिकवाचनाय »)




ज्ञायते किं भवता?

प्रसिद्धाः दश उपनिषदः -

अयं च श्लोक: -

ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरि ।
ऐतरेयञ्च छान्दोग्यं बृहदारण्यकं तथा ॥



वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना

​22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।

​* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्

​21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।

​* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्

​20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।

अद्यतनं सुभाषितम्

केवलं ग्रहनक्षत्रं न करोति शुभाशुभम्।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥

अनुशासनपर्व १४५/२

जीवने कष्टानि दुःखानि यदा आपतन्ति तदा बहवः वदन्ति – ग्रहगतिः समीचीना नास्ति इति। किन्तु केवलं ग्रहनक्षात्रादीनां कारणतः अस्माकं जीवने सुखदुःखादयः न भवन्ति। अस्माभिः कृतानां कर्मणां कारणतः एव शुभाशुभफलं प्राप्यते। ग्रहगतिकारणतः इदं जातम् इत्येतत् जनानां वचनमात्रम्।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्